|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.22. अध्यायः 022
Mahabharata - Drona Parva - Chapter Topics
द्रोणपराक्रमहृष्टेन दुर्योधनेन कर्णं सम्बोध्य भीमसेनाद्यवज्ञाने कृते कर्णेन भीमादीनां प्रशंसनपूर्वकमनवज्ञेयत्वकथनम्॥ 1 ॥
Mahabharata - Drona Parva - Chapter Text

धृतराष्ट्र उवाच। 7-22-0x(4311)(45641)
भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे।
पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत॥ 7-22-1(45642)
आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम्।
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः॥ 7-22-2(45643)
स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते।
अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम्॥ 7-22-3(45644)
जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम्।
त्यजन्तमाहवे प्राणान्सन्नद्धं चित्रयोधिनम्॥ 7-22-4(45645)
महेष्वासं नरव्याघ्रं द्विषतां भयवर्धनम्।
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम्॥ 7-22-5(45646)
भारद्वाजं तथाऽनीके दृष्ट्वा शूरमवस्थितम्।
के शूराः सन्न्यवर्तन्त तन्ममाचक्ष्व सञ्जय॥ 7-22-6(45647)
सञ्चय उवाच। 7-22-7x(4312)
तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः।
पाञ्चालान्पाण्वान्मात्स्यान्सृञ्जयांश्चेदिकेकयान्॥ 7-22-7(45648)
द्रोणचापविमुक्तेन शरौघेणाशु हारिणा।
सिन्धोरिव महौधेन हियमाणान्यथा प्लवान्॥ 7-22-8(45649)
कौरवाः सिंहनादेन नानावाद्यस्वनेन च।
रथद्विपनरांश्चैव सर्वतः समवारयन्॥ 7-22-9(45650)
तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसम्वृतः।
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव॥ 7-22-10(45651)
दुर्योधन उवाच। 7-22-11x(4313)
पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः।
सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना॥ 7-22-11(45652)
नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः।
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः॥ 7-22-12(45653)
अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना।
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः॥ 7-22-13(45654)
सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना।
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः॥ 7-22-14(45655)
भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः।
अन्योन्यं समलीयन्त पलायनपरायणाः॥ 7-22-15(45656)
एष भीमो महाक्रोधी हीनः पाण्डवसृञ्जयैः।
मदीयैरावृतो योधैः कर्ण नन्दयतीव माम्॥ 7-22-16(45657)
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः।
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः॥ 7-22-17(45658)
कर्ण उवाच। 7-22-18x(4314)
नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत्।
न चेमान्पुरुषव्याघ्र सिंहनादान्सहिष्यति॥ 7-22-18(45659)
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः।
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः॥ 7-22-19(45660)
विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः।
स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः॥ 7-22-20(45661)
निवृत्तो हि महाबाहुरमितौजा वृकोदरः।
वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति॥ 7-22-21(45662)
असिना धनुषा शक्या हयैर्नागैर्नरै स्थैः।
आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति॥ 7-22-22(45663)
तमेनमनुवर्तन्ते सात्यकिप्रमुखा रथाः।
पाञ्चालाः केकया मास्त्याः पाश्डवाश्च विशेषतः॥ 7-22-23(45664)
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः।
विनिघ्नन्तश्च भीमेन संरब्धेनाभिचोदिताः॥ 7-22-24(45665)
ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः।
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव॥ 7-22-25(45666)
`समरेषु तु निर्दिष्टाः पाण्डवाः कृष्णबान्धवाः।
पाञ्चालाः केकया मात्स्याः पाण्डवेयाश्च सर्वशः॥ 7-22-26(45667)
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः।
हीमन्तः शत्रुमरणे निपुणाः पुण्यलक्षणाः॥ 7-22-27(45668)
बहवः पार्थिवा राजंस्तेषां वशगता रणे।
मावमंस्थाः पाण्डवांस्त्वं नारायणपुरोगमान्॥ 7-22-28(45669)
एकायनगता ह्येते पीडयेयुर्यतव्रतम्।
अरक्षमाणं शलभा यथा दीपं मुमूर्षवः॥ 7-22-29(45670)
असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे।
अतिभारमहं मन्ये भारद्वाजे समाहितम्॥ 7-22-30(45671)
ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः।
कोका इव महानागं मा वै हन्युर्यतव्रतम्॥ 7-22-31(45672)
सञ्जय उवाच। 7-22-32x(4315)
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्ततः।
भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति॥ 7-22-32(45673)
तत्रारावो महानासीदेकं द्रोणं जिघांसताम्।
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः॥ ॥ 7-22-33(45674)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे द्वाविंशोऽध्यायः॥ 22 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-22-1 अभ्यवर्तत किम्॥ 5-22-31 कोको वृकः॥ 5-22-22 द्वाविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|